वांछित मन्त्र चुनें

ध्रु॒वा ए॒व व॑: पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामास॒: सद॑सो॒ न यु॑ञ्जते । अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥

अंग्रेज़ी लिप्यंतरण

dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate | ajuryāso hariṣāco haridrava ā dyāṁ raveṇa pṛthivīm aśuśravuḥ ||

पद पाठ

ध्रु॒वाः । ए॒व । वः॒ । पि॒तरः॑ । यु॒गेऽयु॑गे । क्षेम॑ऽकामासः । सद॑सः । न । यु॒ञ्ज॒ते॒ । अ॒जु॒र्यासः॑ । ह॒रि॒ऽसाचः॑ । ह॒रिद्र॑वः । आ । द्याम् । रवे॑ण । पृ॒थि॒वीम् । अ॒शु॒श्र॒वुः॒ ॥ १०.९४.१२

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:12 | अष्टक:8» अध्याय:4» वर्ग:31» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) हे विद्वानों ! तुम (ध्रुवाः पितरः) स्थिर रक्षक हो (युगे युगे) अवसर-अवसर पर (क्षेमकामासः) हमारे लिये कल्याणकामना करनेवाले हो-करते रहते हो (सदसः न युञ्जते) हमारे गृहसदस्य जैसे सहयोग करते हैं, वैसे तुम भी सहयोग करते रहो (अजुर्यासः) अजीर्ण-सदा युवा रहते हुए (हरिषाचः) मनुष्यों से मेल करनेवाले (हरिद्रवः) मनुष्यों को सत्कर्मों में प्रेरित करनेवाले (रवेण) उपदेश से (द्याम्) पितृलोक-पुरुषवर्ग को (पृथिवीम्) मातृलोक-स्त्रीवर्ग को (आ-अशुश्रवुः) आपूर भरपूर करो ॥१२॥
भावार्थभाषाः - विद्वान् महानुभाव गृहस्थों की कल्याणकामना करनेवाले घर के सदस्यों के समान समय-समय पर घरों में अपना समागम लाभ दें, उपदेश करें, पुरुष स्त्रियों को ज्ञानपूर्ण बनावें ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वः) यूयम् ‘व्यत्ययेन प्रथमास्थाने द्वितीया’ (ध्रुवः पितरः) स्थिराः खलु रक्षकाः स्थ (युगे-युगे) अवरसेऽवसरे (क्षेमकामासः) अस्मभ्यं कल्याणं कामयमानाः स्थ (सदसः-न युञ्जते) अस्माकं गृहसदस्या यथा युञ्जते संयोगं कुर्वन्ति तथा यूयमपि युङ्ग्ध्वम् (अजुर्यासः) अजीर्णः (हरिषाचः) मनुष्यान् सचमानाः “हरयः मनुष्यनाम” [निघ० २।३] “षच समवाये” [भ्वादि०] मनुष्यैः सह सङ्गच्छमानाः (हरिद्रवः) मनुष्यान् सत्कार्येषु (द्रावयन्ति) प्रवर्त्तयन्ति ये तथाभूता यूयम् (रवेण) उपदेशेन (द्यां पृथिवीम्) पितृलोकं मातृलोकं च-पुरुषवर्गं स्त्रीवर्गं च (आ-अशुश्रवुः) आपूरयथ “पुरुषव्यत्ययश्छान्दसः” ॥१२॥